________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ९४० ॥
www.kobatirth.org
जल्पति यदाचार्याः किंचिच्छिक्षावचनं वदंति, तदा सोऽभीक्ष्णं मुहुरेवं वदति, किं मां यूयं वदत ? यूयमेव किं न कुरुथेत्यर्थः ॥ ११ ॥
॥ मूलम् ॥ न सा ममं वियाणाइ । नवि सा मज्झ दाहिई ॥ निग्गया होहित्ति मन्ने । साहु अन्नोत्थ वच्च ॥ १२ ॥ व्याख्या - तदाऽाचार्यः कंचित्कुशिष्यं प्रति वदति भो शिष्य ! अमुकस्य गृहस्थस्य गृहान्ममेतन्माहाराद्यानीय देहि ? तदा स कुशिष्यो वदति, सा श्राद्धी' ममं ' इति मां न विजानाति, मां नोपलक्षति, सा श्राद्धी मामाहारादिकं न दास्यति अथवा स गुरुंप्रत्येवं वदति, हे गुरो ! अहमेवं मन्ये सा श्राद्धी निर्गता भविष्यति, स्वगृहादपरत्रेदानीं गता भविष्यति. अथवान्यः साधुरस्मिन् कार्ये व्रजतु, अहं न व्रजामीत्यर्थः ॥ १२ ॥
॥ मूलम् ॥ पेसिया पलिउंचति । पलियंति समंतओ ॥ रायवेटिव मन्नंता । करिंति भिउडिं मुहे ॥ १३ ॥ व्याख्या - पुनस्ते कुशिष्या आचार्येण कुत्रचिद्गृहस्थगृहे आहाराद्यर्थं, गृहस्थस्याकारणाय वा प्रेषिताः संतः पलिउंचिंति अपहूनुवंत्यपलपंति वयं भवद्भिः कुत्र मुक्ताः ? अस्माकं स न स्मरति,
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ९४० ॥