________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥९३९॥
विको भवति, सातागोरवे भवः सातागौरविकः, एतादृशो हि विहारं कतुं न शक्नोति. एकः कश्चित्कु- शिष्यः सुचिरक्रोधनश्चिरं क्रोधकरणशीलः, एतादृशो हि तपःक्रियानुष्ठानकरणे योग्यो न भवति. ॥ ॥९॥ एकः कश्चिद्भिक्षालसिको भिक्षायामालस्ययुक्तः, तादृशो हि गोचरीपरीषहसहनयोग्यो न भवति. | एकः कश्चिदपमानभीरुर्भवति, अपमानाद्भीरुरपमानभीरुः, एतादृशो हि यस्य तस्य गृहे न प्रविशति.
एकः कश्चित् स्तब्धोऽहंकारी भवति, एतादृशो निजकुग्रहाद्विनयं कर्तुं न शक्नोति, एकं कुशिष्यप्रति शिक्षादाने आचार्य एवं विचारयति, हेतुभिः कारणैरहमेनं कुशिष्यमनुशास्मि, कथमित्यध्याहारः, कथंशिक्षयिष्यामि? आचार्य इति चिंतापरो भवतीति भावः ॥ १० ॥
॥ मूलम् ॥-सोवि अंतरभासिल्लो । दोसमेव पकुबई ॥ आयरियाणं जं वयण। पडिकूलेई अभिक्खणं ॥ ११ ॥ व्याख्या-सोऽपि कुशिष्य आचार्येण शिक्षितः सन्नंतरभाषावान् , गुरुवचनांतराले एव स्वाभिमतभाषकः. पुनर्दोषमेवापराधमेव प्रकरोति, आचार्यस्य शिक्षायां दोषमेव प्रकाशयति, अपगुणग्राही भवतीत्यर्थः. पुनः स कुशिष्य आचार्याणां यद्वचनं तद्वचनं वारंवारं प्रतिकूलयति, सन्मुखं
SHRESS
॥९३९॥
For Private And Personal Use Only