________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ९३८ ॥
www.kobatirth.org
अत्रोक्तलक्षणा गलिवृषभा योज्या रथस्याग्रे धुरि योत्कृताः संतो यादृशा भवंति, रथारोहकस्याऽस| माधिक्लेशकरा भवंति, हु इति निश्चयेनाचार्यस्यापि दुःशिष्या दुष्टाः शिष्या विनयरहिताः कुशिष्यास्तादृशा भवंति, धर्मयाने मुक्तिनगरप्रापकत्वेन संयमरथे योजिता व्यापारिता भज्यंते, संयमक्रिया| नुष्टानात् स्खलंते, सम्यग् न प्रवर्तते इत्यर्थः कीदृशास्ते ? धृतिदुर्बला धैर्येण दुर्बला निर्बलचित्ताः, धर्मेऽस्थिरा इत्यर्थः ॥ ८ ॥
॥ मूलम् ॥ - इढिगारवए एगे । एगेत्थ रसगारवे || सायागारविए एगे । एगे सुचिरकोह ॥ ९ ॥ भिक्खालसिए एगे । एगे ओमाणभोरुए ॥ थद्धे एगं च अणुसासम्मी । हेऊहिं कारणाहि य ॥ १० ॥ युग्मं ॥ व्याख्या - एकः कश्चिद् ऋद्धिगोरविकः, ऋ द्वया गौरवमस्यास्तीति ऋद्धिगोरविकः, मम श्राद्धा आढ्याः मम श्राद्धा वश्याः, ममोपकरणं वस्त्रपात्रादि समीचीनं, इत्यात्मानं बहुमानरूपं मनुते स ऋद्विगौरविक उच्यते, एतादृशो गुर्वादेशे न प्रवर्तते. एकः कश्चित्पुनरत्र रसगोरविक आहारादिषु रसलोलुपः, एतादृशो हि ग्लानायाहारदानतपसोर्न प्रवर्तते. एकः कश्चित्कुशिष्यः सातागौर
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ९३८ ॥