________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीकं
॥९३५॥
॥ मूलम् ॥-वाहणे वहमाणस्स । कंतारं अइवत्तई ॥ जोए य वहमाणस्स । संसारे अइवतई ॥ २॥ व्याख्या-यथा यथा वाहने शकटादौ विनीततुरगवृषभादीन् ' वहमाणस्स' इत्युह्यमानस्य सारथ्यादेः कांतारमरण्यमतिवर्तते संपूर्ण भवति, तथा योगे संयमव्यापारे सुशिष्यान् वाहयत आचार्यस्य संसारोऽतिवर्तते, शिष्याणां विनीतत्वं दृष्ट्वा स्वयं समाधिमान् जायते, शिष्यास्तु विनीतत्वेन स्वयं संसारमुल्लंघयंते एव. एवमुभयोर्विनीतशिष्यसदाचार्ययोर्योगः संबंधः संसारच्छेदकर इति भावः. ॥२॥
॥ मूलम् ॥-खलुंके जो उ जोएड । विहम्माणो किलिस्सई । असमाहिं च वेएई । तोत्तओ य स भजई ॥३॥ व्याख्या-यस्तु सारथिः खलुंकान् गलिवृषभान् योजयति, रथे स्थापयति, स सारथिः । विहम्माणो' इति विशेषेण तान् खलुंकान् घ्नन् प्राजनकेन ताडयन् संक्लिश्यते, संक्लेशं
प्राप्नोति. अत एवाऽसमाधिमसातां वेदयते प्राप्नोति. च पुनस्तस्य खलंकवृषभयोजयितुः पुरुषस्य तोत्रकः प्राजनको भज्यते. खकुंकानामतिकुट्टनात्प्राजनको भज्यते इति भावः ॥३॥
For Private And Personal Use Only