________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥९३०॥
हीत्वा ततः स्वाध्यायं कुर्यात्, परं किं कुर्वन् स्वाध्यायं कुर्यात् ? असंयतीन् गृहस्थानबोधयन्नजागरयन्, शनै शनैः पठन्नित्यर्थः. उच्चैः पठनश्रवणादृगृहस्थाः सावद्यव्यापारं कुर्वति, तदा साधुरप्यारंभक्रियाभाक् स्यादिति भावः ॥ ४५ ॥
॥ मूलम् ॥-पोरिसीए चउपभाए । वंदिऊण तओ गुरुं ॥ पडिक्कमित्ता कालस्स । कालं तु पडिलेहए ॥४६॥ व्याख्या-चतुर्थ्याः पौरुष्याश्चतुर्थभागेऽवशेषे सति घटिकाद्वये रजन्या अवशिष्टे सति, तदा हि कालवेलासंभवान्न कालस्य ग्रहणं, तस्मात्ततो गुरुं वंदित्वा द्वादशावर्तवंदनं दत्वा कालस्येति तत्समययोग्यं कालं प्रतिक्रम्य तत्संबंधिनी क्रियां कृत्वा, तु पुनः कालं प्राभातिकं कालं प्रतिलेखयेत् , प्राभातिककालग्रहणं गृह्णीयात् , इत्यनेनावश्यकवेलां ज्ञात्वाऽावश्यकानि कुर्यात्. ॥४६॥
॥ मूलम् ॥-आगए कायवुस्सग्गे । सबदुक्खविमोक्खणे ॥ काउस्सग्गं तओ कुजा । सबदुहै| क्खविमोक्खणं ॥ ४७ ॥ व्याख्या-रात्रिप्रतिक्रमणस्थापनानंतरं कायव्युत्सगें आगते सति कायो-
त्सर्गवेलायां प्राप्तायां कायोत्सर्गसमये प्रमादो न विधेयः. कथंभूते समये? सर्वदुःखविमोक्षणे. ततः
९३०॥
For Private And Personal Use Only