________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीकं
॥९२९॥
हए ॥ ४३ ॥ व्याख्या-पश्चात्पालितकायोत्सगों नमस्कारपूर्व 'लोग्गस्सुजोयगरे' इत्यनेन पारयित्वा, ततोऽनंतरं द्वादशावर्तवंदनेन गुरुं वंदित्वा 'इच्छामो अणुसिट्टियं' इत्युक्त्वा, स्थित्वा पश्चास्तुतिमंगलं च स्तुतित्रयात्मकं वर्धमानाक्षरस्तुतित्रयपाठरूपं मंगलं कृत्वा कालं प्रत्युपेक्षते प्रतिजागर्ति, तदवसरसत्कं कालं कालग्रहणं साधुर्गृह्णातीत्यर्थः ॥ ४३ ॥ ततोऽनंतरं यत्करणीयं तदाह| ॥मूलम् ॥-पढमं पोरिसीए सिज्झायं । बीइए झाणं झियायई ॥ तईयाए निदमोक्खं तु । सज्झायं तु चउत्थीए ॥४४॥ व्याख्या-प्रथमपौरुष्यां खाध्यायं कुर्यादिति शेषः. द्वितीयायां ध्यानं पिंडस्थादिकं धर्मर्मध्यानादिकं चाधीतसूत्रार्य ध्यायेचिंतयेत्. तृतीयायां निद्राया मोक्षो निद्रामुत्कलता विधेया, चतुर्थी पुनरपि स्वाध्यायं कुर्यात्. द्वितीयवारकथानाच्छिष्याय गुरुभिरुपदेशो दातव्यः, न तु पाठने प्रयासश्चिंतनीय इति ज्ञेयं. ॥ ४४ ॥ चतुर्थ्याः पौरुष्याः कृत्यमाह
॥ मूलम् ॥-पोरिसीए चउत्थीए । कालं तु पडिलेहए ॥ सज्झायं तु तओ कुज्जा । अबोहं तु असंजए ॥ ४५ ॥ व्याख्या-चतुर्था पोसष्यां पुनः कालं प्रतिलेख्य प्रत्युपेक्ष्य प्रतिजागर्य, प्राग्वद्गृ
%EOS
॥९२९॥
For Private And Personal Use Only