________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
*
सटीकं
R-CANCERSACANCY
अणइक्कमणा य से होइ॥३४॥व्याख्या-निर्यथः साधुधृतिमान् धैर्यवान्, तथा निग्रंथ्यपि साध्व्यपि षड्भिर्वक्ष्यमाणैः कारणैर्भक्तपानगवेषणां न कुर्यात्, यत एभिः स्थानैः ' से ' इति तस्य साधोः साव्या वा आहारमकुर्वतोऽनतिक्रमणं भवति, संयमयोगानामुल्लंघनं न भवति. अन्यथाहारं त्यजतः साधोः संयमयोगस्यातिक्रमणमुल्लंघनं स्यादिति भावः ॥ ३४ ॥ तानि षट् कारणानि दर्शयति
॥ मूलम् ॥-आर्यके उवसग्गे । तितिक्खया बंभचेरगुत्तीसु ॥ पाणिदयातवहेऊ। सरीरवुच्छेयणट्टाए ॥३५॥ व्याख्या-आतंके ज्वरादिरोगे १, उपसर्गे देवादिकृतस्योपसर्गस्यागमने २, तथा ब्रह्मचर्यगुप्तिषु तितिक्षया हेतुभूतया यद्याहारं क्रियेत, तदेंद्रियाणि बलवंति स्युः, तदा ब्रह्मगुप्तिरक्षापि दुष्करा, तस्माद् ब्रह्मगुप्तितितिक्षयााहारनिषेधः, एतत् तृतीयं कारणं ३. तथा प्राणिदयाहेतोः, वर्षादौ निपतदप्कयादिजीवदयार्थं दर्दुरिकादिरक्षायै ४. तपसो हेतोश्चतुर्थषष्टादिवर्गतपोघनतपसोः करणहेतोर्वा पंचमं कारणं ५. पुनः शरीरव्यवच्छेदार्थाय, उचितकाले संलेखनामनशनं कृत्वा शरीरत्यागायाहारं साधुन गवेषयेदिति संबंधः, इति षष्टं कारणं ६. ॥ ३५॥ अथ तद्गवेषणायां विधि
*SAMBAHARH
॥९२५॥
For Private And Personal Use Only