________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
SAROKA
॥९२४॥
|क्यते, प्राकृतत्वाद्विभक्तिलोपः, इति प्रथमं कारणं १. तथा वैयावृत्त्याय वैयावृत्त्यर्थ, यतो हि क्षुत्पिपा
सया पीडितो वैयावृत्यकृत्साधुराचार्यादीनां वैयावृत्त्यं कर्तुं न शक्नोति, एतद् द्वितीयं कारणं. २. तथा 'इरियहाए' र्यार्थायर्यासमित्यर्थ, क्षुधातृषादितस्य निर्जरार्थिनोऽपि साधोश्चक्षुरिंद्रियबलहीनस्य लघुजीवादिकमपश्यत ईर्यायाः पालनं न स्यात् , तदर्थमाहारकरणं तृतीयं कारणं. ३. तथा पुनः संयमार्थाय चारित्रस्य क्रियानुष्टानातापनावश्यकाद्याराधनाथ, यथा शकटांगं घृतादिना संस्कृतमेव च| लति, अन्यथा न चलति, एतच्चतुर्थं कारणं ४. तथा पुनः प्राणप्रत्ययाय, प्राणानां प्रत्ययो जीविता
वधिधारणं प्राणप्रत्ययस्तस्मै प्राणप्रत्ययाय प्राणधारणार्थ, जीवितावधी संपूणे जाते सत्येव प्राणमोचनं | कर्तव्यं. अन्यथात्महत्यादोषः स्यात्, तस्माज्जीवितव्यधारणार्थं, इदं पंचमं कारणं ५. षष्टं पुनरिदं, यदुत धर्मचिंतायै धर्मध्यानश्रुताभ्यासरूपायै भक्तपानं गवेषयेत्, क्षुत्तृषापीडितस्यार्त्तध्यानयुक्तस्य धमध्यानश्रुताभ्यासो न स्यात्, आगतमपि श्रुतं विस्मरतीति षष्टं कारणं ६. ॥ ३३ ॥
॥ मूलम् ॥-निग्गंथो घिइमंतो। निग्गंथीवि न करिज छहिं चेव ॥ ठाणेहिं उ इमेहिं ।
SHRSHAN-153453
R KIKARAN
॥९२४॥
For Private And Personal Use Only