________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥८
॥
TT - TTTTTTTTTTTTTTTTTT
गच्छामि? स्वामिना भणितं तत्र मरणांतिकोपसोऽस्ति, स्कंदकेनोक्तं भगवन् ! वयमाराधका विराधका वा? स्वामिना भणितं त्वां मुक्त्वा सर्वेऽप्याराधकाः, स्वामिनैवमुक्तेऽपि भवितव्यतावशेन पंचशतशिष्यपरिवृतः स कुंभकारकटकपुरे गतः, पालकेन तथागच्छतं श्रुत्वा पूर्ववैरं स्मरता साधुस्थितियोग्योद्याने पत्रिंशदायुधानि भूमौ स्थापितानि, स्कंदकाचार्यस्तु तत्रैव समवस्मृतः. ततः पालकेन नृपस्याग्रे कथितं महाराजायं स्कंदकः पंचशतसाधवोऽपि च सहस्रयोधिनः परीषहभग्नास्तव राज्यं गृहीतुकामाःसमायातास्त्वां हनिष्यंति,राज्यं च गृहीष्यंति, यदि न प्रत्ययस्तदोद्यानं विलोकय? | एभिरायुधानि भूमौ गोपितानि संति. नृपेणोद्यानं विलोकितं, आयुधानि दृष्टानि क्रोधातेन ते साध| वस्तस्यैव दत्ताः, तेन सर्वेऽपि ते यंत्रेण पीलिताः, वधपरीषहस्य सम्यगधिसहनादुत्पन्नकेवलज्ञा नास्ते सिद्धाः, स्कंदकाचार्यस्तु सर्वेषां शिष्याणां तथाविधमरणं दृष्ट्वोत्पन्नक्रोधः सर्वस्याप्यस्य दाहकोऽहं स्यामिति कृतनिदानोऽग्निकुमारेपूत्पन्नः. अथाचार्यस्य रजोहरणं रुधिरलिप्तं गृधैः पुरुषहस्तं ज्ञात्वा चंचुपुटेनोत्पाव्य पुरंदरयशापुरः पातितं, सापि महतीमधृतिं चकार, साधवो गवेषिताः, किंतु
00000000000000000000
॥८
॥
For Private And Personal Use Only