________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandie
उत्तरा
सटीकं
GOEFOGG;GREFGGOOG
धर्मरूपजीवितव्यनाशो भविष्यति, न चास्मिन्ननित्यदेहे नष्टे ममात्मनो धर्मस्य च नाशो भावीति. | यदुक्तं-दोषो मेऽस्तीति युक्तं शपति शपति वा तं विनाज्ञः परोक्षे । दृष्ट्याः साक्षान्न साक्षादिति शपति न मां ताडयेत्ताडयेद्वा ॥ नासून मुष्णाति तान् वा हरति सुगतिदं नैष धर्म ममाहो। इथं | यः कोऽपि हेतो सति विशदयति स्याद्धि तस्येष्टसिद्धिः ॥१॥ अत्र स्कंदकशिष्याणां कथा यथा
श्रावस्त्यां जितशत्रुनृपः, धारिणी प्रिया, तयोः पुत्रः स्कंदकः, पुरंदरयशा पुत्री कुंभकारकटके पुरे दंडकिनृपस्य दत्ता, तस्य पुरोहितः पालको मिथ्याहक्. अन्यदा श्रावस्त्यां मुनिसुव्रतस्वामी समवमृतः, तस्य देशनां श्रुत्वा स्कंदकःश्रावको जातः, एकदा पालकपुरोहिता दूतत्वेन श्रावस्त्यां प्राप्तः, राजसभायां जैनसाधुनामवर्णवादं वदन् स्कंदकेन निरुत्तरीकृत्य निर्धाटितः स स्कंदककुमारस्य छिद्राणि पश्यति.
अन्यदा स्कंदककुमारः श्रीमुनिसुव्रतस्वामिपाश्वे पंचशतकुमारैः सह प्रबजितो गीतार्थो जातः, स्वामिना ते कुमारशिष्यास्तस्यैव दत्ता. अन्यदा स स्वामिनं पृच्छति भगवन्! भगिनीं वंदापनार्थं
000000000000000000000
॥८०॥
For Private And Personal Use Only