________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
N
उत्तरा
सटोकं
णौ पाणिविशोधनं हस्ते हस्तविशोधन प्रस्फोटनं विदध्यात्, हस्तं नावाकारं विधायाच्छोटनत्रिकत्रिकोत्तरकालं, एवं नव पूर्वोक्ताः, नव पुनश्च प्रस्फोटनविशेषाः, एवमष्टादशभेदाः, सप्त पूर्वोक्ताः, एवं पंचविंशतिविधाः प्रतिलेखना भवंति. ॥२५॥
॥ मूलम् ॥-आरभडा सम्मदा । वजेयत्वा य मोसली॥ तइया पप्फोडणा चउत्थी। विक्खित्ता वेइया छठा ॥ २६ ॥ पतिढिलपलंबलोला। एगामोसाअणेगरूवधुणाकुणइ पमाणपमायं । संकिए गणणोवयोगं कुजा॥२७॥ युग्मं ॥ व्याख्य-अथ प्रतिलेखनादोषत्यागमाह-आरभटा विधेर्विपरीतकरणं, त्वरितं त्वरितं पृथक् पृथक् नवीनवस्त्रग्रहणं, एषा प्रथमा प्रमादप्रतिलेखना १. संमर्दा वस्त्रांतकोणानां परस्परमेलनं, अथवोपधेरुपरि निषीदनं, एषा द्वितीया प्रमादप्रतिलेखना २. च पुनस्तृतीया मोसल्यपि वर्जितव्या, उपर्यधोभागतिर्यग्ग्रदेशसंघटना तृतीया प्रतिलेखना सप्रमाददोषा त्याज्या. चतुर्थी प्रस्फोटना, रजसा खरंटितस्य वस्त्रस्याच्छोटना, सापि वर्जनीया. पंचमी विक्षिता, प्रतिलेखितस्य वस्त्रस्याऽप्रतिलेखितवस्त्रोपरि मोचनं, अथवा दिक्षु च विलोकनं इयमपि सप्रमादा प्रतिलेखना
॥९१९॥
For Private And Personal Use Only