________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
सटीकं
उत्तरा- प्रतिलेखनीयमित्यर्थः. वस्त्रमिति जातित्वादेकवचनं. पूर्व दृष्ट्या आरतः परतश्च निरीक्षेतैव. ततो |
बिइयं' इति द्वितीयवारं हस्तोपरि प्रस्फोटयेत्, हस्तगतान् प्राणिनः प्रमार्जयेत्. पुनस्तृतीयवारं त॥९१८॥ || दस्रं प्रमार्जयेद्धस्तोपरि प्रस्फोटयेत्. २४. प्रस्फोटनविधिमाह
॥ मूलम् ॥-अणच्चावियं अवलियं । अणाणुबंधिं अमोसलिं चेव ॥ छप्पुरिमा नव खोडा । पाणीपाणिविसोहणं ॥ २५ ॥ व्याख्या-एवं वस्त्रप्रतिलेखनं कुर्यात्, कोदृशं वस्त्रं ? अनर्तितं, पुनरवलितं मोटनारहितं वलदानरहितं, पुनरनानुबंधि, नैरंतर्येण युक्तमनुबंधि प्रोच्यते, तस्याऽभावोऽननु बंधि, आंतर्यसहितं. कोऽर्थः? यथा पूर्वापरप्रस्फोटनज्ञानं स्यात्, तथा प्रस्फोटनं विदध्यादिति भावः, पुनरमोसलमिति, न विद्यते मोसली यत्र तदमोसलि, ऊर्ध्वाधस्तिर्यग् कुड्यादिपरामर्शसहितं यथा न स्यात्तथा वस्त्रं प्रस्फोटयेत् प्रतिलेखयेदित्यर्यः, पुरिमाः पूर्वमेव क्रियमाणाः षट् प्रस्फोटनामकाः प्रतिलेखनाक्रियाभेदाः कर्तव्याः. प्रथमं वारद्वयं वस्त्रस्य परावर्तनात् प्रस्फोटनात्रयेण त्रयेण षट् भ-12 वंति. पश्चान्नव खोडाः हस्तोपरि प्रस्फोटनात्मकाः, क्षोटानां त्रिकत्रिककरणान्नव संभवंति. पुनः पा
KAYAKALAKARKONKAN
॥९१८॥
For Private And Personal Use Only