________________
Shri Mahavir Jain Nadhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीकं
॥९१६॥
अपि शब्दात् स्वस्य स्वस्य समये कालं प्रतिलेख्य मुनिः कालग्रहणं कुर्यात्. ततश्चैतावता प्रथमे प्रहरे प्रादोषिकं कालं गृहीत्वा स्वाध्यायः कर्तव्यः, एवमन्येष्वपि ज्ञेयं. ॥ १९ ॥ २० ॥ सामान्येन दिनरात्रिकृत्यमुक्त्वा विशेषतो दिनकृत्यमाह
॥ मूलम् ॥ पुविल्लंमि चउप्भागे । पडिलेहिताण भंडगं ॥ गुरुं वंदितु सज्झायं । कुजा दुक्खविमोक्खणं ॥ २१ ॥ व्याख्या सूर्योदयादिवसस्य चतुर्थे भागे, सूर्योदयात्प्रथमे प्रहरे, चतुर्थे भागे
एतावता प्रथमपौरुष्यां प्रथमघटिकाद्वयमध्ये भांडकं वर्षाकल्पायुपधिवस्त्रशय्योपकरणादिकं प्रतिलेख्य | गुरुं वंदित्वा स्वाध्यायं कुर्यात्. कथंभृतं स्वाध्यायं? दुःखविमोक्षणं पापनिर्मूलकं. ॥ २१ ॥
॥ मूलम् ॥-पोरिसीए चउप्भागे । वंदित्ताण तओ गुरुं ॥ अपडिक्कमित्ता कालरस । भायणं पडिलेहए ॥ २२ ॥ व्याख्या-पौरुष्याश्चतुर्थे भागेऽवशेषे सति, पादोनपौरुष्यां जातायां सत्यां, ततो गुरुन् वंदित्वा भाजनं पात्रं प्रतिलेखयत्, किं कृत्वा? कालस्येति कालमप्रतिक्रम्य, प्राभातिककालप्रतिक्रमणार्थं कायोत्सर्गमकृत्वा, चतुर्थ्यां पौरुष्यां पुनः स्वाध्यायं करिष्यते, कालप्रतिक्रमणानंतरं
SARASWARA
For Private And Personal Use Only