________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ९९४ ॥
www.kobatirth.org
धिकैः प्रक्षिप्तैः पादोन पौरुषीकालः स्यात्. एवं तृतीये त्रिके मार्गशीर्षषौषमाघलक्षणे पौरुषीमाने द शभिरंगुलैरधिकैः प्रक्षिप्तेः पादोनपोरुषीकालो ज्ञेयः तथा चतुर्थे त्रिके फाल्गुन चैत्र वैशाखलक्षणे प्रागुक्तपौरुषीमानेऽष्टभिरंगुलैरधिकैः प्रक्षिप्तैः पादोनपोरुषीकालो भवेत् ॥ १६ ॥ दिनकृत्यमुक्त्वा राविकृत्यमाह -
॥ मूलम् ॥ रतंपि चउरो भाए । भिक्खू कुजा वियकखणो ॥ तओ उत्तरगुणे कुज्जा । राई - भागे सुवि ॥ १७ ॥ पढमे पोरिसि सिज्झायं । बिए झाणं झियायई ॥ तईयाए निद्द मोक्खं तु । उत्थी भुजोवि सिज्झायं ॥ १८ ॥ युग्मं ॥ व्याख्या - रात्रेरपि चतुरो भागान् विचक्षणो भिक्षुः क्रियावान् मुनिः कुर्यात्, ततश्चतुर्भागकरणादनंतरं चतुर्ष्वपि रात्रिभागेषूत्तरगुणान् कुर्याः ॥ १७ ॥ प्रथमपौरुष्यां स्वाध्यायं कुर्यात्, द्वितीयायामधीतस्य सूत्रार्थस्य स्मरणं मनसा चिंतनं कुयात्. तृतीयायां पौरुष्यां निद्राया मोक्षो विधेयः प्रथमपौरुष्यां द्वितीयपोरुष्यां च निद्राया मोक्षो निद्रामोक्षस्तं निद्रामोक्षं स्वापं कुर्यात्. यद्यपि मुनेः सर्वथा प्रमादत्याग एवोक्तोऽस्ति, तथाप्ययं निद्रायाः समय उक्तः.
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ९९४ ॥