________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥९१३॥
दिनैः पक्षसंभवमाह
मूलम् ॥-आसाढबहुलपक्खे । भदवए कत्तिए य पोसे य ॥ फागुगवइलाहे पु य। नायबा ओमरत्ताओ ॥ १५॥ व्याख्या-एतेषु मासेषवमरात्रयो ज्ञेयाः. आषाडे बहुलपक्षे कृष्णपक्षे, बहुलपक्षशब्दस्य भाद्रपदादिषु संबंधः कर्तव्यः. भाद्रपदे कार्तिके पोषे फाल्गुने वैशाखे कृष्णपक्षेत्रमरात्रयो भवंति. अवमा ऊना एकेनाहोरात्रेण हीनो इत्यवमरात्रयः, रात्रिपदेनाहोरात्रग्रहणं कर्तव्यं. एवमेतेषु मासेषु दिनचतुर्दशकः कृष्णपक्षः स्यादिति भावः ॥१५॥ अथ पादोनपौरुषीपरिज्ञानोपायमाह
॥ मूलम् ॥-जेहामूले आसाढे। सावणे छहिं अंगुलेहिं पडिलेहा ॥ अहहिं बिययंतियंमी । तईए दस अट्टहिं चउत्थे ॥ १६ ॥ व्याख्या-ज्येष्टामूले इति ज्येष्टानक्षत्रमथ च मुलनक्षत्रं ज्येष्टमासस्य पूर्णिमायां स्यात्तेन ज्येष्टामुले ज्येष्टमासे, तथाषाढे श्रावणे च मासे प्रत्यहं प्रायुक्तपौरुषीमाने षड्भिरंगुलैरधिकैः प्रतिलेखा पादोनपौरुषीप्रतिलेखनाकालः स्यात्. ज्येष्टादारभ्य प्रथमे मासत्रिके एवं ज्ञेयं. द्वितीये तिके भाद्रपदाश्विनकार्तिकलक्षणे मासत्रिके पूर्वोक्तपौरुषीमानेऽष्टभिरंगुलैर
%EOSHESHASTRIES
For Private And Personal Use Only