________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ९१० ।।
www.kobatirth.org
थमे, स्वबुद्ध्या विभागीकृते पूर्वदिक्संबंधिनि आकाशस्य चतुर्थे भागे, यदाकाशस्य दिनमध्ये चत्वारो भागा बुद्धया कल्प्यंते, तन्मध्ये प्रथमे आकाशस्य भागे सूर्ये आगते सति, अर्थात्प्रथमे प्रहरे, यदाकाशे प्रहर प्रमितसूर्यः समारूढः स्यात्तदेति भावः अब किंचिदूनचतुर्भागे, किंचिदूने प्रहरेऽपि पादोनपौरुष्यामयमर्थो गृह्यते यथा दशारहितोऽपि पटः पट एवोच्यते, तथात्र पादोन पौरुष्यपि पौरुष्येव गृह्यते तस्मात्पादोनपौरुष्यां भांडकं पात्राद्युपकरणं प्रतिलेख्य चक्षुषा निरीक्ष्य प्रमार्ज्य, ततोऽनंतरं गुरुं वंदित्वा शिष्यः प्रांजलिपुटः पृच्छेत्, हे गुरो ! इहास्मिन् समये मया किं कर्तव्यं ? हे भंते! हे पूज्य ! अहं वैयावृत्त्ये वाऽथवा स्वाध्याये नियोजितुं युष्माभिः प्रेरयितुं स्वात्मानमिच्छामि वांछामि.
॥ मूलम् ॥ - वेयावच्चे निउत्तेणं । कायवमगिलायओ ॥ सिज्झाए वा निउत्तेणं । सवदुक्खfarad ॥ १० ॥ व्याख्या - गुरुणा वैयावृत्त्ये नियुक्तेन प्रेरितेन शिष्येणाऽग्लान्येव वैयावृत्त्यं कर्तव्यं वाऽथवा स्वाध्याये शास्त्रपठने नियुक्तेन शिष्येण सर्वदुःखविमोक्षणः स्वाध्यायो ऽग्लान्यैव कर्तव्य इति भावः ॥ १० ॥ अथौत्सर्गिकदिवसस्य कर्तव्यमाह
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ९९० ॥