________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोर्क
॥९०९॥
%ANGACASSESIR
|| त्यविनयसंपादनं तदभ्युत्थानमुच्यते. 'अस्थणे' इत्यर्थने ज्ञानाद्यर्थ परस्याचार्यस्य पार्श्वेऽवस्थाय ज्ञानादिगुणार्जनमुपसंपदुच्यते. तस्याचार्यस्य समीपेऽवस्थानाय स्वामिन् ! इयंतं कालं भवतां समीपे मया स्थातव्यं, गच्छांतरे आचार्यांतरे ज्ञानाद्यर्थमिति विज्ञप्तिपूर्वकं ज्ञानाद्यभ्यसनरूपोपसंपत्सामाचारीति भावः. एवममुना प्रकारेण द्विगुणाः पंच, अर्थादशसंयुक्ता भेदसहिताः सामाचार्यःप्रकर्षण वेदिताः प्रवेदितास्तीर्थकरगणधरैः कथिताः ॥ ७॥
॥मूलम् ॥-पुर्विल्लिंमि चउपभागे। आइच्चंमि समुहिए ॥भंडयं पडिलेहिता । वंदित्ता य तओ गुरुं ॥ ८॥ पुच्छिज्जा पंजलिउडो। किं कायवो मए इह ॥ इत्थं निओईडं भंते। वेयावच्चे व सिज्झाए ॥९॥ युग्मं ॥ व्याख्या-अथ पूर्वमौघिकसामाचारीमाह-पूर्वस्मिंश्चतुर्थभागे, यदा दिनस्य चत्वारो भागा भवंति, प्रहरप्रहरप्रमिता भवंति, तदा प्रथमो भागःप्रथमप्रहारात्मकः, तत्र प्रथमप्रहरस्य चतुर्थे भागे घटिकाद्वयरूपे, अष्टघटिकात्मकः प्रहरः, तस्य चतुथों भागो घटिकाद्वयात्मकस्तस्मिन् , आदित्ये समुत्थिते सति घटिकाद्वयस्य सूर्ये सति. अथवा पूर्वस्मिन्निति प्र
SAGARCANE
॥९०९॥
For Private And Personal Use Only