________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥९०७॥
CAKESAPNENCEERE
प्रकाशितेत्यर्थः. कथंभूता सामाचारो? दशांगा, दश अंगानि यस्याः सा दशांगा दशप्रकारेति भावः. ॥४॥अथ का का सामाचारी कुत्र कुत्र कर्तव्या? तदाह
॥ मूलम् ॥-गमणे आवस्सियं कुजा । ठाणे कुज्जा निसीहियं ॥ आपुच्छणा सयं करणे।। परकरणे पडिपुच्छणा ॥ ५॥ व्याख्या-गमने स्वस्थानादन्यत्र गमनेऽप्रमत्तत्वेनाऽवश्यकर्तव्यव्यापारे भवा आवश्यिकी, तामावश्यिकी. यतो हि साधोर्गमनं निःप्रयोजनं नास्ति, यद्यवश्यं किंचिकार्य समुत्पन्नं वर्तते, तदैव साधुः स्वस्थानादुत्थितोऽस्तीति भावः. तथा स्थाने स्वाश्रये प्रवेशसमये प्रमादादात्मनो निषेधः, तत्र भवा नैधिकी. उपाश्रये प्रविशता साधुना नैपेधिको कर्तव्या, यतो || हि स्वाश्रये आगमनादनंतरं तत्समययोग्यकार्याणामेव करणं, तेष्वेव कार्येषु प्रमादनिषेधः कर्तव्य इति भावः. स्वयमात्मना कार्याणां करणे गुरोरापृच्छना कर्तव्या, न च गुरौ सति स्वबुध्यैव गुरुमनापृच्छय कार्य कर्तव्यमिति भावः. परस्य कार्यकरणे गुरोरादेशं प्राप्य यदा कार्य कर्तुमुद्यतो ||९०७॥ भवति, तदा पुनः पृच्छना प्रतिपृच्छनोच्यते. ॥५॥
OGॐॐ
For Private And Personal Use Only