________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ९०० ॥
www.kobatirth.org
1
॥ मूलम् ॥ एवं तु संसए छिन्ने । विजयघोसो य माहणो ॥ समादाय तओ तं तु । जयघोसं महामुणिं ॥ ३६ ॥ व्याख्या - ततस्तदनंतरं विजयघोषो ब्राह्मणो जयघोषं महामुनिमुवाचेदं वचनमुदाह कथयतीति संबंधः किं कृत्वा ? तं मुनिं जयघोषं समादाय सम्यगुपलक्ष्य ज्ञात्वा. क सति ? एवं पूर्वोक्तप्रकारेण विजयघोषस्य संशये छिन्ने सति ॥ ३६ ॥
॥ मूलम् ॥ तुट्ठो य विजयघोसो । इणं मुदाहु कयंजली ॥ माहणत्तं जहा भूयं । सुठु मे उवदंसियं ॥ ३७ ॥ व्याख्या - विजयघोषस्त्विदं वचनं जयघोषमुनये आह, कीदृशो विजयघोषः ? कृतांजलिः. हे मुने! मे मम ब्राह्मणत्वं यथाभृतं यथास्वरूपं सुष्टु सम्यगुपदर्शितं. ॥ ३७ ॥
॥ मूलम् ॥ तुभे जइया जन्नाणं । तुप्भे वेयविऊ विऊ ॥ जोइसंगविउ तुप्भे । तुप्भे ध|म्माण पारगा ॥ ३८ ॥ व्याख्या- किं वचनमाह ? हे महामुने! ' तुप्भे ' इति यूयं यज्ञानां यष्टारो यूयं वेदविद्विदः, वेदवित्सु विदो ज्ञातारो वेदविदां वरा यूयमेव. पुनर्युयमेव ज्योतिषांगविदः, यूयमेव धर्माणां पारगा धर्माचारपारगाः ॥ ३८ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ९०० ॥