________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरादते समुत्पन्ने सति शस्त्रबंधनत्वेनैव क्षत्रिय उच्यते. एवं वैश्योऽपि कर्मणा क्रिययैव स्यात, कृषिपशु
पाल्यादिक्रियया वैश्य उच्यते. कर्मणैव शूद्रो भवति, शोचनादिहेतुप्रेषणभारोद्वहनजलायाहरणच॥८९९॥
रणमर्दनादिक्रियया शूद्र उच्यते. अत्र ब्राह्मणलक्षणावसरेऽन्येषां वर्णत्रयाणां लक्षणविधानं व्या| प्तिदर्शनार्थ. ॥ ३३ ॥
॥ मूलम् ॥–एए पाउकरे बुद्धे । जेहिं होइ सिणायओ ॥ सबकम्मविणिमुक्कं । तं वयं बम माहणं ॥ ३४ ॥ व्याख्या-बुद्धो ज्ञाततत्वः श्रीमहावीरः, एतानहिंसाद्यर्थान् प्रादुरकार्षीत प्रकटीचकार. यैर्गुणः कृत्वा सर्वकर्मविनिर्मुक्तो भूत्वा स्नातको भवति, केवली भवति. प्राकृतत्वात्प्रथमास्थाने द्वितीया. तमेतादृशगुणयुक्तं स्नातकं वा वयं बाह्मणं ब्रूमः ॥ ३४ ॥
॥ मूलम् ॥-एवं गुणसमाउत्ता । जे भवंति दिउत्तमा॥ ते समत्था उ उद्धत्तुं । परं अप्पाणमेव य ॥३५॥ व्याख्या-एवं गुणसमायुक्ता ये द्विजोत्तमा ब्राह्मणश्रेष्टा भवंति, ते ब्राह्मणोत्तमाः परमात्मानमप्युद्धत्तुं समर्था भवंति. ॥३५॥
For Private And Personal Use Only