________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandie
सटोक
कुशो दर्भस्तन्मयं वीरमुपलक्षणत्वावल्कलं कुशचीरं, तेन कुशचीरेण कुशोपलक्षितवल्कलवस्त्रेण ॥८९८॥
तापसो न भवेत्. ॥ ३१॥ | ॥ मुलम् ॥-समयाए समणो होइ । बंभचेरेण बंभणो ॥ नाणेण य मुणी होइ । तवेण होइ तावसो ॥ ३२॥ व्याख्या-'समयाए' समत्वेन शत्रुमित्रयोरुपरि समानभावेन श्रमणो भवति, ब्रह्मचर्येण ब्राह्मणो भवति. ब्रह्म पूर्वोक्तमहिंसासत्यचौर्याभावमैथुनत्यागनिर्लोभरूपं, तस्य ब्रह्मणश्चरणमंगीकरणं ब्रह्मचर्य, तेन ब्राह्मण उच्यते, ब्रह्मचर्येण युक्तो ब्राह्मण इत्यर्थः. ज्ञानेन मुनिर्भवति, मन्यते जानाति हेयोपादेयविधी इति मुनिः, स च ज्ञानेनैव स्यात्, तथा तपसा द्वादशविधेन तापसो भवति.
॥ मूलम् ॥-कम्मुणा बंभणो होइ । कम्मुणा होइ खत्तिओ ॥ वयसो कम्मुणा होइ । सुदो होइ कम्मुणा ॥ ३३ ॥ व्याख्या-कर्मणा क्रियया ब्राह्मणो भवति, क्षमा दानं दमो ध्यानं । स-| दत्यं शौचं धृतिघृणा ॥ ज्ञानविज्ञानमास्तिक्य-मेतद् ब्राह्मणलक्षणं ॥१॥अनया क्रियया लक्षणभूतया
ब्राह्मणः स्यात्. क्षत्रियः शरणागतलाणलक्षणक्रियया क्षत्रिय उच्यते, न तु केवलं क्षत्रियकुले जा
MONOLOGLUNGUA
॥८९८॥
For Private And Personal Use Only