________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोर्क
॥८९२॥
SA-MECCALAA%5C
बूम माहण ॥ १९ ॥ व्याख्या-हे विजयघोष! वयं तं ब्राह्मणं ब्रूमः, तं कं? यो मुनिभिर्ब्राह्मण उक्तः, यत्कैश्चिदज्ञैरब्राह्मणोऽपि ब्राह्मणोऽयमित्युक्तस्तं ब्राह्मणं न ब्रूम इति भावः, कथंभूतः सः? लोके महितः पूजितः सन् दीप्यते. क इव? अग्निरिव, यथाग्निः पूजितो घृतादिसिक्तो दीप्यते. कीदृशं तं ब्राह्मणं? सदा कुशलसंदिष्टं, सदा कुशलैस्तत्वाभिज्ञैः संदिष्टं कथितं. ॥ १९ ॥ अथ कुशलसंदिष्टस्वरूपं ब्राह्मणमाह
॥ मूलम् ॥-जो न सज्जइ आगंतु। पवयंतो न सोयई॥रमइ अजवयणमि । तं वयं ब्रम माहणं ॥ २०॥ व्याख्या-हे विजयघोष! तं वयं ब्राह्मणं ब्रूमः. तमिति कं? य आगंतुमिति बहुभ्यो दिनेभ्यः प्राप्तं वजनादिकं वल्लभं जनं न स्वजति नालिंगति. अथवा आगंतुमिति खजनादिस्थानमागत्य स्वजनादिकं न स्वजति, नाभिष्वंग करोति. पुनर्यः प्रव्रजन् स्थानादन्यत्स्थानं स्थानांतरं गच्छन्, अर्थाद्विच्छटन न शोचते, न शोकं कुरुते. पुनर्य आर्यवचने तीर्थंकरवाक्ये रमते तं वयं ब्राह्मणं वदामः ॥२०॥
KISTASHIKARA
॥८९२॥
For Private And Personal Use Only