________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
C%
सटोक
SECORRECISIS
॥ मूलम् ॥-जायरूवं जहा मढें । निद्धत्तमलपावगं ॥रागदोसभयातीतं । तं वयं ब्रम माहणं ॥२१॥ व्याख्या-हे विजयघोष! वयं तं ब्राह्मणं ब्रूमः कीदृशं? जातरूपं स्वर्णमिवामृष्ट, तेजोवद्धये मनःशिलादिना परामृष्टं, कृतवर्णिकावर्धनं, अनेन बाह्यगुण उक्तः, यथाशब्द इवाथें. पुनः कीदृशं तं? ' निद्धत्तमलपावगं' नितरामतिशयेन ध्मातं मलं किटं तद्रूपं पातकं यस्य स निर्मातमलपापकस्तं, अनेन चांतरो गुण उक्तः. पुनः कथंभूतं? रागद्वेषभयातीतं, रागः प्रेमरूपः, द्वेषोऽप्रीतिरूपः, ताभ्यामतीतो दूरीमृतस्तं विप्रं वदामः ॥ २१ ॥
॥मूलम् ॥-तवस्सियं किसं दंतं । अवचियमंससोणियं ॥ सुवयं पत्तनिवाणं । तं वयं ब्रम | माहणं ॥ २२ ॥ व्याख्या-हे विजयघोष ! वयं तं ब्राह्मणं ब्रूमः. तं कं? तपस्विनमत एव कृशं दुबलं. पुनः कीदृशं? दांतं जितेंद्रियं. पुनः कीदृशं? अपचितमांसशोणितं शोषितमांसरुधिरं. पुनः कीदृशं? सुव्रतं सम्यग्वतानां धर्तारं, पुनः कीदृशं? प्राप्तनिर्वाणं प्राप्तं कषायाग्निशमनेन निर्वाणं शीतीभावं येन स प्राप्तनिर्वाणस्तं. ॥ २२ ॥
E5CD-RESTHCASE
॥८९३॥
For Private And Personal Use Only