________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥७८॥
Saee000000
तदानीलेव तत्र यक्षपूजार्थं मालिकः समायातः, तं बध्ध्वा षडपि पुरुषास्तस्या भोगे प्रवृत्ताः, स पश्यत्वं च चिंतयति मयैष यक्षो मुधैवार्चितः, यदेतस्य पुर इत्थं पराभूयते. ततो यक्षस्तच्छरीरमनु-15 प्रविश्य तान् षडपि पुरुषान् स्त्रीसतमान् मारयतिस्म. एवं प्रत्यहं मारयति. ततो लोकोऽपि तस्मिन् । मार्गे राजगृहपुरात्तावन्न निर्गच्छति यावत्सप्त मारिता न स्युः, अन्यदा श्रीवीरस्तत्र समवस्तृतः, न काऽपि तद्भयेन वंदनार्थं गच्छति, सुदर्शनश्रेष्टी तु यद्भवति तद्भवतु, मया त्ववश्यं श्रीवीरस्तत्र गत्वा वंदनीय एवेति विचिंत्य तन्मार्गे चलितः, तं दृष्ट्वा मालिकशरीरप्रविष्टो मुद्गरपाणिर्यक्षो धावितः. ततः सुदर्शनश्रेष्टिनार्हत्सिद्धसाधुशुद्धधर्मशरणं प्रपन्नं, सागारिकमनशनमपि गृहीतं, कायोत्सर्गेण स्थितं, ततो धर्मप्रभावात्स यक्षस्तमाक्रमितुं न शक्नोति, पश्चाद्यक्षो मालिकशरीरं मुक्त्वा गतः, स्वस्थोभूतो मालिकः श्रेष्टिमुखाद्वीरागमनं श्रुत्वा श्रेष्टिना सह वंदनाथं गतः. वोरवचसा प्रतिबुद्धोऽसौ दीक्षा गृहीतवान्, राजगृहनगरमध्य एव गृहे गृहे भिक्षार्थं भ्रमति, लोकास्तु स्वजनमारकोऽयमित्याक्रोशान् ददति, स मनोवचनकायशुध्ध्या तानाकोशान् विषह्योत्पन्नकेवलज्ञानः शिवमगात्. एवमन्यैरप्याक्रो
000000002-1-490000000
॥७८॥
For Private And Personal Use Only