________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोर्क
॥८९०॥
AMARCHECCAR545%EOS
विजयघोष! यज्ञार्थी पुरुषो वेदसा यज्ञानां मुखो वर्तते. यज्ञो दशप्रकारधर्मः सत्यं १ तपश्च २ संतोषः ३ । क्षमा ४ चारित्र ५ मार्जवं ६ ॥ श्रद्धा ७ धृति ८ रहिंसा ९ च । संवरश्च १० तथापरः ॥१॥ इति दशप्रकारः. स चाल प्रस्तावाद्भावयज्ञः, तं यज्ञमर्थयत्यभिलषतीति यज्ञार्थी, स एव यज्ञानां मुखं वर्तते. नक्षत्राणामष्टाविंशतीनां मुखं चंद्रो वर्तते. धर्माणां श्रुतधर्माणां चारित्रधर्माणां काश्यप आदीश्वरो मुखं वर्तते. धर्माः सर्वेऽपि तेनैव प्रकाशिता इत्यर्थः ॥ १६ ॥ | ॥ मूलम् ॥-जहा चंदं गहाईया । चिठंते पंजलिउडा ॥ वंदमाणा नमसंति । उत्तमं मणहारिणो ॥ १७ ॥ व्याख्या-यथा ग्रहादिका अष्टाशीतिग्रहाः, नक्षत्राण्यष्टाविंशतिप्रमितानि, एवं सर्वे ज्योतिष्का देवाश्चंद्र प्रांजलिपुटा बद्धांजलयस्तिष्टंति सेवंते, एवं श्रीऋषभदेवमुत्तमं प्रधानं यथास्यात्तथा मनोहारिणस्त्रिभुवनवर्तिनो भव्या वंदमानाः स्तवनां कुर्वतो नमस्कुर्वति, विनये प्रवर्तते इति भावः ॥ १७॥
॥ मुलम् ॥-अजाणगा जन्नवाई । विज्जामाहणसंपयां ॥ मूढा सज्झायतवसा । भासच्छन्ना
-25
For Private And Personal Use Only