________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ८८९ ॥
www.kobatirth.org
जं मुहं ॥ १४ ॥ व्याख्या - हे महामुने! त्वमेव वेदानां मुखं ब्रूहि ? पुनर्यद् यज्ञानां मुखं तन्मे ब्रूहि ? पुनर्नक्षत्राणां मुखं ब्रूहि ? पुनर्धर्माणां यन्मुखं तन्मे ब्रूहि ? ॥ १४ ॥
॥ मुलम् ॥-जे समत्था समुद्धतुं । परं अप्पाणमेव य ॥ एयं मे संसयं सवं । साहू कहसु पुच्छओ ॥ १५ ॥ व्याख्या- पुनर्ये पुरुषाः परं च पुनरात्मानमपि संसारादुद्धर्तुं समर्थाः संति, एतन्मे मम संशयविषयं वेदमुखादिकमस्ति हे साधो ! त्वं मया पृष्टः सन् सर्वं कथयस्व ? ॥ १५ ॥ इत्युक्ते मुनिराह॥ मूलम् ॥ अग्गिहोत्तमुहा वेया । जन्नट्टी वेयसामुहं ॥ नखत्ताण मुहं चंदो । धम्माणं कासवो मुहं ॥ १६ ॥ व्याख्या - हे विजयघोष ! वेदा अग्निहोत्रमुखाः, अग्निहोत्रं मुखं येषां तेऽग्निहोत्रमुखाः, वेदानां मुखमग्निहोत्रं. अग्निहोत्रं ह्यग्निकारिका, सा चेयं - कर्मेधनं समाश्रित्य । दृढा सद्भा वनाहुतिः ॥ धर्मध्यानाग्निना कार्या । दीक्षितेनाग्निकारिका ॥ १ ॥ इत्यादियज्ञविधिविधायिका कारिका गृह्यते. वेदानां यज्ञानामेषैव कारिका मुखं प्रधानं, अस्याः कारिकाया अर्थः- कर्माण कृत्वा उत्तमभावना आहुतिर्विधेया, धर्मध्यानाग्नौ दीक्षितेनेयमग्निकारिका विधेया. पुनर्हे ब्राह्मण
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ८८९ ॥