________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ૮૮૮
www.kobatirth.org
नासि, पुनर्यद् यज्ञानां मुखं वर्तते तदपि त्वं न जानासि पुनर्यन्नक्षत्राणां मुखं तदपि त्वं न जानासि पुनर्यद्धर्माणां मुखं वर्तते तदपि त्वं न जानासि ॥ ११ ॥ पुनः स साधुर्विजयघोषं ब्राह्मणं पृच्छति॥ मूलम् ॥ —जे समत्था समुद्धतुं । परं अप्पाणमेव य ॥ ण ते तुमं वियाणासि । अह जाणासि तो भण ॥ १२ ॥ व्याख्या - हे विजयघोष ! ये परं च पुनरात्मानमेव समुद्धर्तुं संसारान्नि स्तारयितुं समर्थास्तान् खपरनिस्तारकांस्त्वं न जानासि, अथ चेत्त्वं जानासि तदा भण? कथय ? |१२|
॥ मूलम् ॥ - तस्साक्खेवपमोक्खं च । अवेयंतो तहिं दिओ ॥ सपरिसो पंजलिउडो । पुच्छई तं महामुनिं ॥ १३ ॥ व्याख्या -' तहिं ' इति तत्र यज्ञे द्विजो विजयघोषः प्रांजलिपुटो बद्धांजलिः सन् तं महामुनिं पृच्छति, कीदृशो द्विजः ? सपरिषद्बहुभिर्मनुष्यैः सहितः पुनः स द्विजः कीदृशः सन् ? तस्य साधोराक्षेपं प्रश्नस्तस्य प्रमोक्षं प्रतिवचनमुत्तरं, ' अवेयंतो ' इति दातुमशक्नुवन्, प्रनस्योत्तरं दातुमसमर्थः सन्, दातुमित्यध्याहारः ॥ १३ ॥
॥ मूलम् ॥ - वेयाणं च मुहं बूहि । बूहि जन्नाण जं मुहं ॥ नखत्ताण मुहं ब्रूहि । ब्रूहि धम्माण
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥८८८ ॥