SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ Shri Maa Jan Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥८७६॥ WRICAR ARARIABAR वस्त्रादिकं, देहं शरीरं, अन्यत्तथाविधपरिष्टापनायोग्यं, भेषजाद्यर्थमानीतं गोमूत्रादिकं, एतत्प्रासुके 12 सटोक स्थंडिले परिष्टापयेत्. पूर्वं स्थंडिलस्य चतुर्भगीमाह-अनापातेऽसंलोके, न विद्यते आपातः स्वपक्षीयपरपक्षीयाणामापातो गमनागमनं यत्र तदनापातं. पुनर्यदसंलोकं भवति, न विद्यते लोकानां संलोको दूराद् दृष्टिप्रचारो यत्र तदसंलोकं. कोऽर्थः? यत्र स्थंडिले प्रायो गृहस्थः कोऽपि नायाति, यत्र च स्थंडिले प्रायो दूराद् गृहस्थानां दृष्टिप्रचारो न स्यात्, तत्र स्थंडिले इत्यर्थः, इति प्रथमो भंगः १. पुनर्यत्स्थंडिलमनापातं भवति, परं संलोके भवति. लोकानामुपागमनरहितं भवति, अथ च लोकानां दूरात्सलोकसहितं दृष्टिप्रचारसहितं भवतीति द्वितीयो भंगः. २. पुनर्यत्स्थंडिलं लोकानामापातसहितमुपागमनसहितं भवति, अथ च दूराल्लोकानां संलोकरहितं दृक्प्रचाररहितं भवति, अयं तृतीयो भंगः ३. पुनर्यत्स्थंडिलमापातं लोकानामुपागमनसहितं भवति, अथ च संलोकं दूराल्लोकानां दृष्टिप्रचारसहितमपि भवति, अयं चतुर्थों भंगः ४. ॥ १६ ॥ P॥८७६॥ 'अणावायेति' तत्र चतुःषु भेदेष्वनापातेऽसंलोके स्थंडिले उच्चारादीनि व्युत्सृजेत्. कथंभूते स्थं For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy