________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोर्क
॥८७४॥
CALCARALAB
सरसाहारं करोति तदा पंचमोऽकारणदोषः ५. एते पंच दोषाः परिभोगेषणाया ज्ञेयाः. एवं सर्वे सप्तचत्वारिंशदोषा भवंति. परिभोगैषणायां चतुष्कं दोषचतुष्टयं सूत्रे उक्तं, तत्त्विंगालधूमयोर्मोहनीयकोंदयादेव दायकस्य प्रशंसातो निंदातश्च प्रादुर्भावादेकत्वमेवांगीकृतं, तस्माच्चत्वार एव दोषा गृहीताः. एवं षट्त्वारिंशदोषा भवंति. अथवा परिभोगैषणायां परिभोगसमये आसेवनासमये पिंडं १ शय्यां २ वस्त्रं ३ पात्रं ४ चैतच्चतुष्कं विशोधयेत्, अयमप्यों विद्यते, इत्यनेन 'उग्गमुप्पायणं पढमे' इति गाथाया अर्थः ॥ १२॥ इत्येषणासमितिः. अथ चतुर्थी समिति प्राह
॥ मूलम् ॥-ओहोवहोग्गहियं । भंडगं दुविहं मुणी ॥ गिण्हतो निक्खिवंतो यं । पउंजिज इमं विहिं ॥ १३ ॥ व्याख्या-ओघोपधिकं सामुदायिकं, उपग्राहिकोपधिकं, उपगृह्यते वारंवारं यत्नार्थमित्युपग्राहिकं रजोहरणपोतिकादिकं. अत्रोपधिशब्दस्य प्रत्येकं प्रयोगः, एवं भांडमुपकरणं द्विविधं भवति, रजोहरणदंडकादिकं द्विप्रकारं वर्तते, मुनिस्तं द्विविधमपि भांडं गृह्णन्, च पुनर्निक्षिपन् मुंच-21८७४॥ निमं विधि प्रयुजीत. ॥ १३ ॥ तं विधि प्राह
For Private And Personal Use Only