________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
॥८७३॥
ORRE-REK+EHA
शुद्धमाहारं संमील्य ददाति, तदा सप्तम उन्मिश्रितदोषः ७. यदा द्रव्येणाऽपरिणतमाहारं, भावेनो- सटीक भयोः पुरुषयोराहारं वर्तते, तन्मध्ये एकस्य साधवे दातुं मनोऽस्ति, एकस्य च नास्ति, तदाहारमपरिणतदोषयुक्तं स्यात्, इत्यपरिणतदोषश्चाष्टमः ८. यदा दधिदुग्धक्षरेय्यादिद्रव्यं, येन द्रव्येण दर्वीकरो वा लिप्तः स्यात्तदा पश्चात्कर्मत्वेन लिप्तपिंडो नवमो दोषः स्यात् ९. यदा सिक्थानि घृतदधिदुग्धादिबिंदन पातयन्नाहारं ददाति, तदा छर्दितो दशमो दोषः स्यात्. १०. इति ग्रहणेषणायां दायकग्राहकयोरन्योन्यं दोषसंभवः. एवं सर्वमीलने द्विचत्वारिंशदोषा भवति.
अथ परिभोगैषणायां ग्रासैषणायां पंच दोषाः संभवंति. तद्यथा-यदा क्षीरखंडघ्रतादिद्रव्यं संमील्य रसलौल्येन भुंक्ते, तदा संयोजनादोषः प्रथमः १. यावत्प्रमाणः सिद्धांते पुरुषस्याहार उक्तोऽस्ति तस्मादाहारप्रमाणात्स्वादलोभेनाधिकमाहारं यदा करोति, तदाऽप्रमाणो द्वितीयो दोषः २. यदा सरसाहारं कुर्वन् धनवंतं दातारं वर्णयति तदेङ्गालदोषस्तृतीयः ३. विरसमाहारं कुर्वन् दरिद्रं कृपणं ||Mean वा निंदति, तदा चतुर्थो धूमदोषः ४. यदा तपःस्वाध्यायवैयावृत्त्यादिकारणषट्कं विना बलवीर्यायथ
PRAKARAKASHRA
For Private And Personal Use Only