________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥७६॥
9000000000000000000000
षधिमिश्रं मयापरपर्यायं विकटं (उष्णजलं) स्वजनैर्दत्तं, तो तत्स्वरूपमजानंतो जलविशेषबुष्ट्या पीतवंती, परिणते च तस्मिन् ज्ञातमद्यस्वरूपो तो कृतपश्चात्तापो तद्वैराग्यादेवानशनं पादपोपगमनामकं नदीतटस्थकाष्टोपरि प्रपन्नो. ततोऽकालवृष्ट्या नदीपूरेण प्लावितौ समुद्रांतः प्रविष्टो, तत्र जलचरोपसर्ग विषय दिवं गतो. इमो हि नीरपूरागमेऽपि शय्यातो न पृथग्भूतो. एवं शय्यापरीषहः. अथ शय्यास्थितस्य तत्रोपद्रवे जाते सति रागद्वेषरहितस्य साधोर्यदा कश्चिच्छय्यातरो वा शय्यातरादन्यो वा वचनैराक्रोशेदिति हेतोराक्रोशपरीषहोऽपि सोढव्यः, अतस्तत्परीषहमाह--
॥मूलम् ॥-अकोसिज परो भिक्खुं । न तेसिं पडिसंजले ॥ सरिसा होइ बालाणं । तम्हा भिक्खू न संजले ॥ २४ ॥ सुच्चागं परुलाभासा ! दारुगा गामकंटया। तुसिणीओ उवेहिजा न ताओ मणसी करे ॥२५॥ व्याख्या-परोऽन्यः कश्चिद्यदि भिखं साधुमाकोशेत दुर्वचनैस्तर्जयेत् तदा तस्मै न प्रतिसंज्वलेत, तस्योपरि क्रोधंन कुर्यादित्यर्थः, यदि तस्योपरि साधुरपि क्रोधं कुर्यात्तदा सोऽपि बालानां मूर्खाणां सदृशो भवेत्, तस्माद्भिक्षुर्न संज्वलेद्गाला श्रुत्वा प्रतिगालीं न दद्यात्, तदा किं कुर्यादित्याह
000000000000000000000
॥७६॥
For Private And Personal Use Only