________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाति तदा
सटीक
॥८६९॥
1-MAID1AE
KALAX-
-A
निष्कास्य दीयते तदोद्भिन्नदोषो द्वादशः स्यात् १२. यदोच्चस्थानादुत्तीर्यानीयाहारादि ददाति तदा मालाहृतस्त्रयोदशो दोषः स्यात्, एवं नीचैरपि दुःखीभूय ददाति, तदापि स एव मालापहृतो दोषः स्यात् १३. यदा कस्माचिनिर्बलादुद्दाल्याहारादिकं ददाति, तदाच्छिद्यश्चतुर्दशो दोषः १४. यदा द्वित्राणां पुरुषाणां साधारणे आहारे एकोऽन्याननापृच्छय साधवे ददाति तदा पंचदशोऽनिसृष्टो दोषः १५. यदा स्वनिमित्तमाहारे राध्यमाने साधुनिमित्तमपि तस्मिन्नाहारेऽधिकं हंडिकायां पूर्यते तदाऽध्यवपूरो दोषः षोडशः १६. एते षोडशोद्गमदोषाः, एते दायकादोषा उत्पद्यते. ___अथाऽनगारात् षोडश दोषा उत्पयंते, ते चोत्पादनदोषा अमी-प्रथमो धात्रीदोषः, यदा सा-12 धुम्रहस्थस्य बालकान् चिप्पिटिकादिभिः क्रीडयित्वा धात्रीवत्प्रमोदमुत्पाद्याहारं गृह्णाति, तदा प्रथमो धात्रीदोष. १. यदा गृहस्थगृहे गुप्तप्रकटसमाचारान् स्वजनादीनां कथयित्वााहारं गृह्णाति तदा दूतकर्माख्यो द्वितीयो दोषः २. यदा लाभालाभजीवितमृत्युसुखदुःखादिनिमित्तं त्रिकालस्थं गृहस्थाग्रे उक्त्वामहारं गृह्णाति तदा निमित्तदोषस्तृतीयः ३. यदा गृहस्थस्य ज्ञातिं कुलं ज्ञात्वात्मीय
-CRA
C%-55
मा८६
C K
For Private And Personal Use Only