________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ८६७ ॥
www.kobatirth.org
हिज्ज जयं जइ ॥ १२ ॥ व्याख्या -' जयं ' इति यत्नावान् ' जइ ' इति यतिः साधुः प्रथमे इति प्रथमायां गवेषणैषणायामुद्गमोत्पादनान् दोषान् विशोधयेद्विशेषेण विचारयेत्. पुनः साधुर्द्वितीयायां ग्रहणैषणायां शंकितादिदोषान् विचारयेत्. पुनस्तृतीयायां परिभोगैषणायां चतुष्कं दोषचतुष्टयं विशोधयेत्. ॥ १२ ॥ इति गाथार्थः अत्र प्रथमायां गवेषणैषणायां द्वात्रिंशदोषा भवति, तद्यथा-प्रथमं षोडशोद्गमदोषाः, उद्गमशब्देनार्धकर्मकादिषोडशदोषाः, एते दोषा गृहस्थादेवोत्पद्यते तथा प्रथमैपणायामेव षोडशोत्पादनादिदोषा भवंति उत्पाद्यंते साधुना ये ते उत्पादनाः, साधोः सकाशादेव | षोडश दोषा उत्पद्यंते, ते च धात्रीप्रमुखाः, एवं द्वात्रिंशदोषाः द्वितीयायामेषणायां ग्रहणैषणायां शंकितादिदशदोषा उभयतो दायकाद्वाहकाच्च भवंति एवं द्विचत्वारिंशद्दोषा भवति तत्र प्रथम आर्धकर्मिकः, अर्धकर्मणि भव आर्धकर्मिकः, यदाहारं गृहस्थेन सर्वान् दर्शनिनः, सर्वान् लिंगिन | उद्दिश्य कृतमार्धकर्मिकमुच्यते. १. साधुयोगे सति यदुद्दिश्य कृत्वा दीयते तदुद्देशिकमुच्यते. २. अयं द्वितीयो दोषः. बहुतरे विशुद्धे आहारे आर्धकर्मिकाहारकणैकयुक्तं यदा भवति, तदा पूतिकर्मदोषः,
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥ ८६७ ॥