________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥८६६॥
54OCA-NCREACOCCASICS
नो २ माया ३ लाभश्च ४ हास्यं ५ भयं ६ मौखरिका ७ विट्चेष्टा असंबद्धवचनभाषणं वा, विकथां |८ च राज्यादिचतुर्विधां. एतान्यष्टावसत्यवाक्यस्थानानि. तस्मात्प्रत्येकं क्रोधे माने मायायां लोभे च हास्ये भये मौखरिकायां तथैव विकथासु च मृषादिरूपमसद्वाग्योग परिहत्याऽसावद्यां निदोषां| परिमितां प्रस्तावे भाषां वदेदित्यर्थः ॥ १०॥ अथैषणासमितिमाह
॥ मूलम् ॥-गवेषणा य गहणे य। परिभोगेसणा य जा॥ आहारोवहिसिज्झाए। एए तिन्नि विसोहिए ॥११॥ व्याख्या-गवेषणायामेषणा गवेषणैषणा, गौरिवेषणा गवेषणा, विशुद्धाहारदर्शनविचारणा प्रथमैषणा १. द्वितीया ग्रहणैषणा, विशुद्धाहारस्य ग्रहणं ग्रहणैषणा २. तृतीया परिभोगे| षणा, परि समंताद् भुज्यते आहारादिकमस्मिन्निति परिभोगो मंडलीभोजनसमयः, तत्रैषणा विचारणा परिभोगैषणा ३. एतास्तिस्रोऽप्येषणा आहारोपधिशय्यासु विशोधयेत्, केवलमाहारे एवैताएषणा न भवेयुः, किंवाहारे उपधौ वस्त्रपात्रादौ, शय्या उपाश्रयः संस्तारकादिश्च, तत्र सर्वत्रैषणा विधेयेत्यर्थः.
॥ मूलम् ॥-उग्गमुप्पयणं पढमे । बिइए सोहिज एसणं ॥ परिभोगंमि चउकं च । विसो
॥८६६॥
For Private And Personal Use Only