________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
सटीक
उत्तरा
॥८६३॥
AC
|भावः. ॥ ४॥ पूर्व चतुणां कारणानां नामान्युक्त्वाथ विस्तरेण वर्णयति
॥ मूलम् ॥ तत्थ आलंबणं नाणं । दसणं चरणं तहा ॥ काले य दिवसे वुत्ते । मग्गे उप्पहवजिए॥५॥ व्याख्या-तत्र चतुःषु कारणेष्वालंबनं, यदालंब्य गमनमनुज्ञायते तदालंबनं. | यतो ह्यालंबनंविना निरर्थकं गुरुभिर्गमनमनुज्ञातं नास्ति, तदालंबनं ज्ञानं सूत्रं अर्थ तदुभयं सूत्रार्थ- 18 ज्ञानं सिद्धांतपठनपाठनं. ततो दर्शनं सम्यक्त्वं तत्वरुचिरूपं, तस्य ग्रहणं ग्राहणं वा, तदपि कारणं. पश्चाचरणं चारित्रं, अत्र चारित्रशब्देन सामायिकादिकं, सामाइयं समईयं । सम्मावाओ समा- 2 ससंखेवो ॥ अणवजं च परिणा। पच्चक्खाणे य ते अट्ठ ॥१॥ इत्याद्यपि कारणं. यतो हि ज्ञानाथ दर्शनार्थ चारित्राथ, एवं द्वयोरथ, एवं पृथक् पृथक्, एवं त्रयाणामप्यर्थ, एवमष्टादश भेदा भवंति. च पुनः काल ईर्यायाः समयो दिवस एवोक्तः, न तु रात्रिर्यायाः समयोऽस्ति. रात्रौ हि विहारं कुर्वतः साधोरीर्याशुद्धिन स्यादित्यर्थः. मार्गस्तृत्पथवर्जनमुन्मार्गस्य त्यागः, उन्मार्गे चलमानस्यात्मनः संयमस्य विराधना स्यात्. ॥५॥
SAHITY-SANSAR
-A
-
-
॥८६३॥
For Private And Personal Use Only