________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥८६०
R GARH
MEDNA-CA-MAHARAGADHECE
स्यात्, वाग्योगो हि अष्टप्रवचनमातृस्वरूपः, अतोऽष्टप्रवचनमातृस्वरूपं चतुर्विंशतितमेऽध्ययने कथ्यते-सूत्रं
॥ मूलम् ॥-अ पवयणमायाओ। समिई गुत्ती तहेव य ॥ पंचेव य समिईओ।तिओ गुत्ती उ आहिया ॥१॥ व्याख्या-एता अष्टौ प्रवचनमातर आहिता आख्याताः, प्रवचने सिद्धांते मातरश्चारित्रस्य जनन्यः प्रवचनमातरः, साध्वाचारजननात्परिपालनाजनन्यस्तीर्थकरैः कथिताः. ता अष्ट प्रवचनमातरः काः? समितयः कति ? गुप्तयश्च कति ? तयोः समितिगुप्त्योः संख्यां वदति. पंचैव, एव निश्चये पादपूरणे वा. पंच समितयस्तिस्रो गुप्तयः. उभयोर्मीलनेऽष्टप्रवचनमातर उक्ताः.
॥ मूलम् ॥-इरिया भासेसणादाणे । उच्चारे समिईइय ॥ मणगुत्ती वयगुत्ती । कायगुत्ती य अट्टमा ॥२॥ व्याख्या-एताः पंच समितयः, प्रथममीर्यासमितिः, ईरणमीर्या, समितिशब्दस्य प्रत्येकमभिसंबधः. ईर्यायां गमनागमने सं सम्यक् प्रकारेण इतिरात्मचेष्टा ईर्यासमितिः, सार्धहस्तत्रयावलोकनं वा चक्षुषा कृत्वा यत्नेन चंक्रमणमीर्यासमितिः १. द्वितीया भाषासमितिः, विचार्य
KESARHA
For Private And Personal Use Only