________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
सटीक
उत्तरा
१८३७॥
A
HOLESALOES-5RCIS-545
न भवति?॥३०॥
॥मूलम् ॥-केसिं एवं वुवंताणं । गोयमो इणमबवी ॥ विन्नाणेण समागम्म । धम्मसाहणमिच्छयं ॥ ३१ ॥ व्याख्या-तु पुनर्गौतम एवं ब्रुवाणं केशीकुमारं मुनिमिदमब्रवीत्, हे केशीमुने! तीर्थकर्विज्ञानेन विशिष्टज्ञानेन केवलज्ञानेन समागम्य यद्यद्यस्योचितं तत्तथैव ज्ञात्वा धर्मसाधनं धर्मोपकरणं वर्षाकल्पादि, इदमृजुप्राज्ञयोग्यं, इदं च वक्रजडयोग्यमितीप्सितमनुमतमिष्टं कथितमिति यावत् . यतो हि वीरशिष्याणां रक्तवर्णादिवस्त्रानुज्ञाने वक्रजडत्वेन रंजनादिषु प्रवृत्तिनिवारैव स्यात्. पार्श्वनाथशिष्यास्तु ऋजुप्राज्ञत्वेन शरीराच्छादनमात्रेण प्रयोजनं जानंति, न च ते किंचित्कदाग्रहं कुर्वति. ॥ ३१॥
॥ मूलम् ॥-पच्चयत्थं च लोगस्स । नाणाविहविगप्पणं ॥ जत्तत्थं गहणत्थं च । लोगे लिंगप्पओयणं ॥ ३२॥ व्याख्या-हे केशीमुने! नानाविधविकल्पनं नानाप्रकारोपकरणपरिकल्पनमनेकप्रकारोपकरणचतुर्दशोपकरणधारणं वर्षाकल्पादिकं च यत्पुनलोंके लिंगस्य प्रयोजनं, साधुवेषस्य प्रवर्तनं
1-4404SOSIA
॥८३७॥
For Private And Personal Use Only