________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा- साधुप्रज्ञास्ति; सम्यग्बुद्धिरस्ति, मे ममायं संशयस्त्वया छिन्नो दूरीकृतः, अन्योऽपि मम संशयोऽस्ति,
तमिति तस्योत्तरं हे गौतम ! त्वं कथयस्व ? इदं वचनं हि शिष्यापेक्षं, न तु तस्य केशीमुनेर्ज्ञान॥८३६॥
त्रयवत एवंविधसंशयसंभवः ॥ २८ ॥
॥ मूलम् ॥-अचेलगो य जो धम्मो । जो इमो संतरुत्तरो ॥ देसिओ वद्धमाणेण । पासेण य महाजसा ॥ २९ ॥ एककज्जपवन्नाणं । विसेसे किं नु कारणं ॥ लिंगे दुविहे महावी । कहं विप. च्चओ न ते ॥ ३०॥ युग्मं ॥ व्याख्या-वर्धमानेन चतुर्विंशतितमतीर्थकरेण यो धर्मोऽचेलकः प्र. | माणोपेतजीर्णप्रायधवलवस्त्रधारणात्मकः साध्वाचारो दिष्टः, च पुनः पावेन महायशसा त्रयोविंश- | तितमतीर्थकरेण योऽयं धर्मः सांतरुत्तरः पंचवर्णबहुमूल्यप्रमाणरहितवस्त्रधारणात्मकः साध्वाचारः प्रदर्शितः. हे मेधाविन् ! एककार्यप्रतिपन्नयोः श्रीवीरपार्श्वयोर्विशेषे भेदे किं कारणं? को हेतुः? हे गौतम! द्विविधे लिंगे द्विप्रकारके साधुवेषे ते तव कथं विप्रत्ययो नोत्पद्यते? कथं संदेहो न जायते?
Pin८३६॥ 3 उभावपि तीर्थकरौ मोक्षकार्यसाधकौ, कथं ताभ्यां वेषभेदः प्रकाशितः? इति कथं तवायं संशयो
AAAAAACADVIDEOS
4%AE%ENCEKASGANESC
For Private And Personal Use Only