________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+-
उत्तरा
सटीक
+
--HANSAR
तितीर्थकृत्साधवो हि ऋजुप्राज्ञाः, स्तोकेनोक्तेन बहुज्ञाः, तस्माच्चातुर्ऋतिको धर्म उद्दिष्टः, मैथुनं हि परिग्रहे एव गण्यते. आदीश्वरस्य साधूनां यदि पंच महाव्रतानि प्राणातिपातविरतिमृषावादविरतिस्तेयविरतिमैथुनविरतिपरिग्रहविरतिरूपाणि पृथक् पृथक् कथ्यंते, तदा ते ऋजुजडाः पंचमहाव्रतानि पालयंति, नो चेत्ते व्रतभंगं कुर्वति, ते तु यावन्मात्रमाचारं शृण्वंति तावन्मात्रमेव कुर्वति, अधिकं स्वबुध्ध्या किमपि न विदंति. महावीरस्य साधवस्तु चेत्पंचमहाव्रतानि शृण्वंति तदैव पालयंति,तेऽपि वका जडाश्च चेच्चत्वारि व्रतानि शृण्वंति तदा चत्वार्येव पालयंति, न तु पंचमं पालयंति. वक्रजडा हि कदाग्रहग्रस्ता अतीवहठधारिणः. द्वाविंशतितीर्थकृत्साधव ऋजवः प्राज्ञाश्च चत्वारि व्रतानि श्रुत्वा सुबुद्धित्वात् पंचापि व्रतानि पालयंति. तस्माच्चत्वारि व्रतानि प्रोक्तानि. तस्माद्धमों द्विविधः कृतः, चातुबतकः पंचवतात्मकश्च. स्वस्ववारकपुरुषाणामभिप्रायं विज्ञाय तीर्थकरधर्म उपदिष्ट इति भावः ॥२७॥
॥मूलम् ॥–साह गोयम पन्ना ते। छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं मे कह सुगोयमा ॥ २८ ॥ व्याख्या-इति श्रुत्वा केशीकुमारः श्रमणो वदति, हे गौतम! ते तव
-5916
H॥८३५॥
For Private And Personal Use Only