________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटार्क
॥८३४।
CAMECACANCE5%ASHA
वक्रजडाः, वक्राश्च ते जडाश्च वक्रजडाः, वक्राः प्रतिबोधसमये वक्रज्ञानाः, जडाः कदाग्रहपराः, तादृशा बभूवुः. तु पुनर्मभ्यमा मध्यमतीर्थकराणां मुनयो द्वाविंशतितीर्थकृत्साधव ऋजुप्राज्ञा बभूवुः, ऋजवश्च ते प्राज्ञाश्च ऋजुप्राज्ञाः, ऋजवः शिक्षाग्रहणतत्पराः, पुनः प्राज्ञाः प्रकृष्टबुद्धयः, तेन कार| णेन हे मुने! धर्मो द्विधा कृतः ॥ २६॥
मूलम् ॥-पुरिमाण दुविसोज्झो। चरिमाणं दुरणुपालओ चेव ॥ कप्पो मज्झिमगाणं तु । सुविसोझो सुपालओ ॥ २७ ॥ व्याख्या-'पुरिमाणं' इति प्रथमतीर्थकृत्साधूनां कल्पः साध्वाचारो दुर्विशोध्यो दुःखेन निर्मलीकरणीयः. आदोश्वरस्य साधव ऋजुजडाः, ऋजुजडत्वात्कल्पनीयाकल्पनीयज्ञानविकलाः. पुनश्चरमाणां चरमतीर्थकृत्साधूनां दुरनुपालको दुःखेनानुपाल्यते इति दुरनुपालकः, महावीरस्य साधवो वक्रजडाः, वक्रत्वाद्विकल्पबहुलत्वात्साध्वाचारं जानंतोऽपि कर्तुमशक्ताः. तु पुनर्मध्यमगानां द्वाविंशतितीर्थकृत्साधूनामजितनाथादारभ्य पार्श्वनाथपर्यंततीर्थकरमुनीनां कल्पः साध्वाचारः सुविशोभ्यः सुपालकश्च सुखेन निर्मलीकर्तव्यः, पुनः सुखेन पाल्यः. द्वाविंश
KAR-SHIRGERCARKe
15
For Private And Personal Use Only