________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥७२॥
0000000000000000000006
जाता, गुरवस्तद्गृहे गताः, चप्पुटिकाकरणपूर्व मा रुद बालेत्युक्तं, आचायतपस्तेजसा व्यंतरो नष्टः, । तुष्टास्तन्मातृपितृप्रभृतिस्वजनास्तेभ्यो मोदकादिकमाहारंगाढाग्रहेण दत्तवंतः,ते मोदकास्तस्यैव शिष्यस्य गुरुभिर्दत्ता, स्वयं त्वंतप्रांतमाहारं विहृत्य भुक्तवंतः, प्रतिक्रमणावसरे तस्य शिष्यस्य पिंडदोषमालोचयेति गुरुभिरुक्तं, शिष्यश्चिंतयत्यसो धात्रीपिंडं सदा भुंक्ते, मम त्वेवं कथयतीति चिंतनसमय
एव तद्भापनार्थ देवतयांधकारं विकुर्वितं, स भृशं बिभेति, गुरुं प्रति च वक्ति अहमत्र दूरस्थो विभेमि. का गुरवः प्राहुरेहि मत्समीपे? स वक्त्यस्मिन् घोरांधकारे नाहमागंतुं शक्नोमि, गुरुभिस्थूत्कृतकृतलिप्सा स्वांगली दर्शिता, तद्द्योतेन सोऽत्रायातः, परं चिंतयति गुरवो दीपकं रक्षयंति. एवं चिंतयन्नेवासौ देवतया चपेटाभिस्तर्जितः, ज्ञातस्वरूपैर्गुरुभिस्तस्य नवभागीकरणादिकं स्वरूपं प्रकाशितं, यथा संगमस्थविरैर्वहारक्रमापरपर्यायश्चर्यापरीपहोऽध्यासितस्तथा ग्लानत्वावस्थायामपि क्षेत्रनवभागीकरणेनापि चर्यापरीषहोऽन्यैरध्यासितव्यः. अथ यथा ग्रामादिष्वप्रतिबद्धेन चर्या सह्यते, तथा शरीरादिष्वप्यप्रतिबद्धेन नैषेधकीपरीषहोऽपि सहनीयः, अतस्तं परीषहमाह
900900900000000000000
भा॥७२॥
For Private And Personal Use Only