________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥७१॥
0000000000000000000006
परिदए ॥ १९ ॥ व्याख्या-लाढः साधुरेक एव चरेत् , लाढयति यापयति आत्मानमेषणीयाहारेण निर्वाहयतीति लाढः, कुत्र कुत्र विचरेत् ? ग्रामे वाथवा नगरेऽपि, अथवा राजधान्यामपि द्रव्येण भावेन चैकाक्येव विचरेत्, तत्र ग्रामः कंटकादिवेष्टितः, नगरं प्राकारादियुक्तं, निगमो वणिग्जनस्थानं, राजधानी राजस्थानमेतेषु विहारं कुर्यात्, परं कीदृशः सन् भिक्षुर्विचरेत् ? असमानः सन् न विद्यते समानो यस्य सोऽसमानः, गृहस्थोऽन्यतीर्थिलोकेभ्योऽधिकः सर्वोत्कृष्टः, पुनः कीदृशः? गृहस्थैरसंसक्तो गृहस्थैः सहासं मिलितः, पुनः कीदृशः? अनिकेतः, न विद्यते निकेतो गृहं यस्य सोऽनिकेतोऽनगारः, एतादृशः सन् परिव्रजेत्. सर्वतो विहरेत्. ॥ १९ ॥ अत्र संगमस्थविरदृष्टांतः
कोल्लागपुरे संगमस्थविरा बहुश्रुता यथास्थितोपसर्गापवादनिपुणा दुर्भिक्षे गणं देशांतरे प्रेष्य स्वयं नगरं नवभागीकृत्य व्यवस्थिताः, नगरदेवता च तेषां गुणै रंजिता. अन्यदा तत्र गुरुवंदनाथ दत्तनामा शिष्यः समायातः, तद्भक्त्यर्थ गुरवः सपात्रं तं साधं लात्वा भिक्षायां गताः, एकस्येभ्यस्य भद्रकप्रकृतेहे बालो व्यंतरेण गृहीतः सदा रोदति, उपायशतसहस्रकरणेऽपि व्यंतरदोषोपशांतिर्न
100000000000000000
॥७
॥
For Private And Personal Use Only