________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सदीकं
॥७
॥
0000000000000000000000
श्रीयको दापितवान, मदनफलचूर्णमिश्रितं कमलं च वररुचये दापितवान्. तद्नंधमात्राद्वररुचिना पीतं मयं तत्रैव वांतं, राज्ञा तस्य धिक्कारपूर्व नागरिकविप्रवृदवचसा तप्तत्रपुपानं कारितं, स मृतः. अथ क्रमाद्विहरंतः स्थलिभद्रादिशिष्यसहिताः श्रीसंभूतिविजयाचार्याः पाटलिपुरे चतुर्मासकस्थित्यै समायातो. तत्रैकः शिष्यः कृतचतुर्मासकोपवासःसिंहगुहायां गुर्वाज्ञया स्थितः. एकश्च दृष्टिविषसर्पविले स्थितः, एकः पुनः कूपदारुणि तथैव स्थितः. स्थूलभद्रस्तु नित्याहारकारी कोशावेश्यागृहे गुर्वाज्ञया स्थितः. कोशया त्वस्य पुरस्तादृशा हावभावा विहिता यथा परमयोगीश्वरोऽपि द्रवति, परमेतस्य मनो न मनागपि क्षुभितं, प्रत्युत सा सुशीला श्राविका विहिता, शेषं चरित्रं तु प्रसिद्धमेव. एवं यथा स्थलिभद्रेण स्त्रीपरीषहः सोढस्तथापरैरपि साधुभिः सोढव्यः. अथैकत्र स्थितस्य मुनेःस्त्रीप्रसंगः स्यात. अतश्चर्या कायेंति हेतोश्चर्यापरीषहः सोढव्यः, अतस्तमाह
॥ मूलम् ॥-एग एव चरे लाढे । अभिभूय परीसहे ॥ गामे वा नगरे वावि । निगमे रायहाणिए ॥ १८ ॥ असमाणो चरे भिक्खू । नेय कुज्जा परिग्गहं ॥ असंतत्तो गिहत्थेहिं । अणिकेर
0000000000000000000000
For Private And Personal Use Only