________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्सरा
॥६९॥
DUGG000000000000000
| स्थूलभद्रः प्राह, लोत्रितं शिरो मयेत्युक्त्वा गतःस्थूलभद्रः क्वचिन्नगरे संभृतिविजयसूरेः शिष्यो जातः. सटीक अथ भ्रातृमोहेन श्रीयकः कोशागृहे आलापनाय गच्छति वदति च हे कोशे! त्वत्पतिर्मभ्राता स्थूलभद्रो यतिर्जातः, त्वत्पतिपिता शकडालश्च क्षयं गतस्तत्कारणमसौ वररुचिर्भट्टो ज्ञेयः, सच त्वद्भगिन्यामुपकोशायां रक्तोऽस्ति, यथेयममुं मद्यपानरतं करोति तथा विधीयतामित्युक्त्वा श्रीयकः | स्वगृहे गतः
अथ कोशावचनादुपकोशा तं वररुचिं मद्यपानरतंचकार. ज्ञाततवृत्तांता च कोशा मद्यपानमसी कुर्वन्नस्तीति श्रीयकायाचख्यौ. अन्यदा राज्ञा शकडालः स्मारितोऽहो गुणवान् शक्तो भक्तो महामंत्री ममाभूत, ईदृशोऽप्यसौ यदित्थं मृतस्तन्मे मनसि दूयते, इति राज्ञोक्तमाकर्ण्य श्रीयकः प्राह यन्मे पितेत्थं मृतस्तत्र मद्यपानकार्ययं वररुचिरेव कारणं, श्लोकशिक्षणं डिभानां तेनैव कृतमित्यादि वाता चकार. राजा पप्रच्छ वररुचिः किं मद्यपानं करोति ? श्रीयकः प्राह श्वो दर्शयिष्यामीत्युक्त्वा खग्रहे। श्रीयकः गतः. अथ प्रभाते नृपपर्षद्युपविष्टानां सर्वेषां नराणां करेषु संकेतितपुरुषेण कमलानि
9000000000000000000000
॥६९॥
For Private And Personal Use Only