________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ८३० ॥
4 बार
www.kobatirth.org
प्रतिपत्ति सेवां संप्रतिपद्यते सम्यक्करोतीत्यर्थः ॥ १६ ॥
॥ मूलम् ॥ - पलालं फासूयं तत्थ । पंचमं कुसतणाणि य ॥ गोयमस्स निसिजाए । खिप्पं संपणामए ॥ १७ ॥ व्याख्या -तत्र तिंदुकोद्याने एव केशीकुमारश्रमणो गौतमस्य निषद्याये गौतमस्योपवेशनार्थ प्रासुकं निर्बीजं चतुर्विधं पलालं, पंचमानि कुशतृणानि चकारादन्यान्यपि साधुयोग्यानि तृणानि ' संपणामए ' समर्पयति. पंचमत्वं हि कुशतृणानां पलालभेदेन, चतुर्विधं पलालं यथा-तणपणगं पन्नत्तं । जिणेहिं कम्मट्ठगंठिमहणेहिं ॥ साली १ वीही २ कोदव ३ । रालंग ४ रन्ने तणा ५ पंच ॥ १ ॥ इति वचनात् चत्वारि पलालानि साधुप्रस्तरणयोग्यानि, पंचमं हि दर्भादि प्रासुकं तृणं वर्तते तत् केशीकुमारश्रमणेन गौतमस्य प्रस्तरणार्थं प्रदत्तमिति भावः ॥ १७ ॥
॥ मूलम् ॥ – केसीकुमारसमणो । गोयमे य महाजसे ॥ उभओ निसन्ना सोहंति । चंदसूरसमप्पभा ॥ १८ ॥ व्याख्या - तदा केशीकुमार श्रमणश्च पुनर्गोतमो महायशाः, एतावुभौ तत्र तिंदुकाने निषण्णावुपविष्टौ शोभेते विराजेते. कथंभूतौ तौ ? चंद्रादित्यसमप्रभौ ॥ १८ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥ ८३० ॥