________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥८२८॥
DOMANOHARASHIONEHA
विसेसो किं नु कारणं ॥ १३॥ युग्मं ॥ व्याख्या—यश्चायं चातुर्यामो धर्मः पार्श्वन महामुनिना | तीर्थकरेण दर्शितः, चत्वारश्च यामाश्च चतुर्यामस्तत्र भवश्चातुर्यामश्चातुर्वतिकोऽहिंसा १ सत्य २ चौयेत्याग ३ परिग्रहत्याग ४ लक्षणो धर्मः प्रकाशितः. यश्च पुनरयं धर्मो वर्धमानेन पंचशिक्षिकः पंचशिक्षितो वा, पंचभिर्महाव्रतैः शिक्षितः पंचशिक्षितः प्रकाशितः. पंचसु शिक्षासु भवः पंचशिक्षिकः पंचमहावतात्मा, अहिंसा १ सत्य २ चौर्यत्याग ३ मैथुनपरिहार ४ परिग्रहत्याग ५ लक्षणो धर्मः प्रकाशितः ॥ १२ ॥ पुनर्वर्धमानेनाऽचेलको धर्मः प्रकाशितः, अचेलं मानोपेतं धवलं जीर्णप्रायमल्पमूल्यं वस्त्र धारणीयमिति वर्धमानस्वामिना प्रोक्तं, असदिव चेलं यत्र सोऽचेलः, अचेल एवाऽचेलकः, यद्वस्त्रं सदप्यसदिव तद्धार्यमित्यर्थः, पुनयों धर्मः पार्श्वेन स्वामिना सांतरोत्तरः, सह अंतरेणोत्तरेण प्रधानबहुमुल्येन नानावणेन प्रलंबेन वस्त्रेण च वर्तते यः स सांतरोत्तरः सचेलको धर्मः प्रकाशितः. एककायें मुक्तिरूपे कार्ये प्रवृत्तयोः श्रीवीरपार्श्वयोर्धर्माचारप्रणिधिविषयो विशेषस्तत्र किं नु कारण? को हेतुः? कारणभेदे हि कार्यभेदसंभवः कार्य तूभयोरेकमेव, कारणं च पृथक् पृथक् कथमिति भावः,
ACROSS
॥८२८॥
For Private And Personal Use Only