________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥८२५॥
CHOPRORNCAE%ESS
वागए ॥४॥ व्याख्या-स केशीकुमारश्रमणस्तत्र श्रावस्त्यां नगया, तस्याः श्रावस्त्या नगरमंडले पुरपरिसरे तिंदुकं नामोद्यानं वर्तते, तत्रोद्याने प्रासुके प्रदेशे जीवरहिते शय्यासंस्तारे वासमुपागतः. शय्या वसतिस्तस्यां संस्तारः शिलाफलकादिः शय्यासंस्तारस्तस्मिन् समवसृत इत्यर्थः ॥४॥
मूलम् ॥-अह तेणेव कालेणं । धम्मतित्थयरे जिणे ॥ भगवं वद्धमाणुत्ति । सबलोगंमि विस्सुए ॥५॥ व्याख्या-अथशब्दो वक्तव्यांतरोपन्यासे. तस्मिन्नेव काले धर्मतीर्थकरो जिनो भग-|| वान् श्रीवर्धमान इति सर्वलोके विश्रुतोऽभूत्. ॥ ५॥
॥ मूलम् ॥ तस्स लोगपईवस्स । आसि सोसे महाजसे ॥ भयवं गोयमं नामे । विजाचरणपारगे ॥६॥ व्याख्या-तस्य श्रीवर्धमानस्वामिनो लोकप्रदीपस्य तीर्थकरस्य गौतमनामा शिध्योऽभूत्. कथंभूतो गौतमः? महायशा महाकीर्तिः, पुनः कीदृशो गौतमः? विद्याचरणपारगो ज्ञानचारित्रधारी. पुनः कीदृशो गौतमः? भगवांश्चतुर्ज्ञानी मतिश्रुतावधिमनःपर्यायज्ञानयुक्. ॥६॥
॥ मूलम् ॥-बारसंगंविउ बुद्धे । सीससंघसमाकुले ॥ गामाणुगाम रीयंते । सोवि सावत्थी
॥८२५॥
For Private And Personal Use Only