________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ८२० ॥
www.kobatirth.org
तत्काष्ट द्विधा कृतं तत्र दृष्टो दह्यमानः सर्पः, तस्य भगवता स्वपुरुषवदनेन पंचपरमेष्टिनमस्काराः प्रदापिताः. नागोऽपि तत्प्रभावान्मृत्वा समुत्पन्नो नागलोके धरणेंद्रो नागराजा. लोकैश्चाहो भगवतो ज्ञानशक्तिरिति भणद्भिर्महान् सत्कारः कृतः ततो विलक्षीभृतः कमठपरिवाजको गाढमज्ञानतपः कृत्वा मेघकुमार निकायमध्ये समुत्पन्नो मेघमालीनाम भवनवासी देवः अन्यदा सुखेन तिष्टतो भगवतो वसंतसमयः समागतः तत् ज्ञापनार्थमुद्यानपालेन सहकारमंजरी भगवतः समर्पिता. भगवता भणितं भो ! किमेतत् ? स आह भगवन् ! बहुविधक्रीडानिवासो वसंतसमयः प्राप्तः ततो मित्रप्रेरितः श्रीपार्श्वकुमारो वसंतक्रीडानिमित्तं बहुजनपरिवारसमन्वितो यानारूढो गतो नंदनं वनं, तत्र यानात्समुत्तीर्य स निषण्णो नंदनवनप्रासादमध्यस्थितकनकमयसिंहासने. अतिरमणीयं नंदनवनं सर्वतः पश्यन्, भित्तिस्थं परमरम्यं चित्रं दृष्ट्वा अहो ! किमत्र लिखितं ? ज्ञातमिति सम्यग् निरूपयता भगवता दृष्टमरिष्टनेमिचरित्रं.
ततः स चिंतितुं प्रवृत्तो धन्यः सोऽरिष्टनेमियों विरसावसानं विषयसुखमाकलय्य निर्भरानुरागां
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥। ८२० ॥