________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersari Gyanmandi
सटीक
उत्तरा
१८१९॥
५-०२
CATEACOCOPYRICASASH
वृद्धिं प्राप, अष्टवार्षिकश्च भगवान् सर्वकलाकुशलो बभूव. अथ भगवान् सर्वमनोहरं यौवनं प्राप. पित्रा च तदानीं प्रभावती कन्यां परिणायितः, भगवान् तया समं विषयसुखं बुभुजे. अन्यदा भग|वता प्रासादोपरि गवाक्षजालस्थेन दिगवलोकनं कुर्वता दृष्टो नगरलोकः प्रवरकुसुमहस्तो बहिर्गच्छन. पृष्टं च भगवता कस्यचित्पार्श्ववर्तिनः, भो किमद्य कश्चित्पर्वोत्सवोऽस्ति? येनैष जनः पुष्पहस्तो बहिगच्छन्नस्ति? तेन पुरुषेणोक्तमद्य कोऽपि पर्वोत्सवो नास्ति, किंतु कमठो नाम महातपस्वी पुरीबहिः | समागतोऽस्ति, तद्वंदनाथ प्रस्थितोऽयं जनः.
ततस्तद्वचनमाकर्ण्य जातकौतुकविशेषो भगवांस्तत्र गतः पंचाग्नितपः कुर्वाणं कमळं दृष्टवान्. त्रिज्ञानवता भगवता ज्ञात एकस्मिन्नग्निकुंडे प्रक्षिप्तातीवमहत्काष्टमध्ये प्रज्वलन् सर्पः. उत्पन्नपरमकरुणेन भगवता भणितमहो कष्टमज्ञानं, यदीडशेऽपि तपसि क्रियमाणे दया न ज्ञायते. ततः कमठेन भणितं राजपुत्रास्तु कुंजरतुरगखेलनमेव जानंति, धर्मं तु मुनय एव विदंतीति. ततो भगवतैकस्य स्वपुरुषस्यैवमादिष्टं, अरे! इदमग्निमध्ये प्रक्षिप्तं काष्टं कुठारेण द्विधा कुरु? तेन पुरुषेण
२
For Private And Personal Use Only