________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥८२१॥
CIRCRACHHORSCIETTE
निरुपमरूपलावण्यां जनकवितीर्णा राजकन्यां च त्यक्त्वा भग्नमदनमंडलप्रचारः कुमार एवं निष्क्रांतः. ततोऽहमपि करोमि सर्वसंगपरित्यागं. अत्रांतरे लोकांतिका देवास्तत्रागत्य भगवंतं प्रतिबोधयंतिस्म. त्रिंशद्वर्षाणि गृहस्थवासेऽसौ स्थितः, ततो मार्गणगणस्य यथोचितं सांवत्सरिकदानं दत्वा । भगवान् मातृपित्राद्यनुज्ञया महामहःपूर्वमाश्रमपदोद्यानेऽशोकपादपस्याधः पौषशबैकादशीदिने प्रर्वाह्नसमये पंचमौष्टिकं लोचं कृत्वा अपानकेनाष्टमभक्तेनैकं देवदूष्यमादाय त्रिभिः पुरुषशतैः समं निष्क्रांतः. अथ श्रीपाश्वों भगवान् विहरन्नेकदा वटपादपाधः कायोत्सर्गेण स्थितः. इतश्च स कमठजीवो मेघमाली असुरोऽवधिना ज्ञात्वात्मनो व्यतिकरं, स्मृत्वा च पूर्वभववैरकारणं समुत्पन्नतीबामर्षः समागतस्तत्र. प्रारब्धास्तेनानेकसिंहादिरूपैरनेके उपसर्गाः, तथापि भगवान् श्रीपाश्ोषब्धो धर्मध्यानान्न चलितः. तादृशं तं ज्ञात्वा कमठ एवं चिंतायामास, अहमेनं जलेन प्लावयित्वा मारयामीति ध्यात्वा भगवदुपरिष्टान्महामेघवृष्टिं चकार. जलेन भगवदंगं नाशिकांयावयाप्तम्,
अत्रांतरे कंपितासनेन धरणेंद्रेणावधिना ज्ञातभगवयतिकरण समागत्य स्वामिशीर्षोपरि फणि
॥८२१॥
For Private And Personal Use Only